हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Tulasi Kavacham – श्री तुलसी कवचम्
अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः, अनुष्टुप्छन्दः श्रीतुलसीदेवता, मम ईप्सितकामना सिद्ध्यर्थे जपे विनियोगः ।
तुलसी श्रीमहादेवि नमः पङ्कजधारिणि ।
शिरो मे तुलसी पातु फालं पातु यशस्विनी ॥ १ ॥
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।
घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ॥ २ ॥
जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम ।
स्कन्धौ कल्हारिणी पातु हृदयं विष्णुवल्लभा ॥ ३ ॥
पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी ।
कटिं कुण्डलिनी पातु ऊरू नारदवन्दिता ॥ ४ ॥
जननी जानुनी पातु जङ्घे सकलवन्दिता ।
नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ॥ ५ ॥
सङ्कटे विषमे दुर्गे भये वादे महाहवे ।
नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा ॥ ६ ॥
इतीदं परमं गुह्यं तुलस्याः कवचामृतम् ।
मर्त्यानाममृतार्थाय भीतानामभयाय च ॥ ७ ॥
मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् ।
वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥ ८ ॥
द्रविणाय दरिद्राणां पापिनां पापशान्तये ।
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् ॥ ९ ॥
पशव्यं पशुकामानां पुत्रदं पुत्रकाङ्क्षिणाम् ।
राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये ॥ १० ॥
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ।
जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः ॥ ११ ॥
उद्यन्तं चण्डकिरणमुपस्थाय कृताञ्जलिः ।
तुलसी कानने तिष्ठान्नासीनो वा जपेदिदम् ॥ १२ ॥
सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ।
मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ॥ १३ ॥
या स्यान्मृतप्रजानारी तस्या अङ्गं प्रमार्जयेत् ।
सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् ॥ १४ ॥
वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ।
साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् ॥ १५ ॥
अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक् ।
पलाशमूले विद्यार्थी तेजोऽर्थ्यभिमुखो रवेः ॥ १६ ॥
कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम ।
श्रीकामो विष्णुगेहे च उद्याने स्त्रीवशा भवेत् ॥ १७ ॥
किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः ।
यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् ॥ १८ ॥
मम गेहगतस्त्वं तु तारकस्य वधेच्छया ।
जपन् स्तोत्रम् च कवचं तुलसीगतमानसः ॥ १९ ॥
मण्डलात्तारकं हन्ता भविष्यसि न संशयः ॥ २० ॥
इति श्रीब्रह्माण्डपुराणे तुलसीमहात्म्ये तुलसीकवचं सम्पूर्णम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.